|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.2. अध्यायः 002
Mahabharata - Bhishma Parva - Chapter Topics
श्रीव्यासेन धृतराष्ट्रंप्रति युद्धदर्शनाय चक्षुर्दानकथनम् ॥ 1 ॥ धृतराष्ट्रेण युद्धश्रवणमात्रे प्रार्थिते व्यासेन सञ्जयंप्रति युद्धिविषये सार्वज्ञदानपूर्वकं युद्धप्रकारकथननियोगः ॥ 2 । व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ 3 ॥

Mahabharata - Bhishma Parva - Chapter Text
वैशम्पायन उवाच। 6-2-0x(3949)(38657)
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ 6-2-1(38658)
भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥ 6-2-2(38659)
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ 6-2-3(38660)
व्यास उवाच। 6-2-4x(3950)
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥ 6-2-4(38661)
तेषु कालपरीतेषु विनश्यत्स्वेव भारत ।
कालपर्यायमाहाय मा स्म शोके मनः कृथा ॥ 6-2-5(38662)
यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते ।
चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ॥ 6-2-6(38663)
धृतराष्ट्र उवाच। 6-2-7x(3951)
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम। 6-2-7(38664)
युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ॥ 6-2-7(38665)
वैशम्पायन उवाच। 6-2-8x(3952)
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति।
वराणामीश्वरो व्यासः संजयाय वरं ददौ ॥ 6-2-8(38666)
व्यास उवाच। 6-2-9x(3953)
एष ते संजयो राजन्युद्धमेतद्वदिष्यति।
एतस्य सर्वं संग्रामे न परोक्षं भविष्यति ॥ 6-2-9(38667)
चक्षुषा संजयो राजन्दिव्येनैव समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ 6-2-10(38668)
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि ।
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥ 6-2-11(38669)
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥ 6-2-12(38670)
अहं तु कीर्तिमेतेषां करूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ 6-2-13(38671)
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ 6-2-14(38672)
वैशम्पायन उवाच। 6-2-15x(3954)
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः ।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥ 6-2-15(38673)
इह युद्धे महाराज भविष्यति महान्क्षयः ।
तथेह च निमित्तानि भयदान्युपलक्षये ॥ 6-2-16(38674)
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः ।
संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ॥ 6-2-17(38675)
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ॥ 6-2-18(38676)
कटाकटेति वाशन्तो भैरवा भयवेदिनः ।
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ॥ 6-2-19(38677)
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ 6-2-20(38678)
श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥ 6-2-21(38679)
ज्वलितार्के .......त्रं निर्विशेषदिनक्षपम् ।
चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले । 6-2-22(38680)
आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥ 6-2-23(38681)
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ 6-2-24(38682)
अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ 6-2-25(38683)
देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च॥ 6-2-26(38684)
अनाहता दुन्दुभयः प्रणदन्ति विशांपते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ 6-2-27(38685)
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ 6-2-28(38686)
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः ।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥ 6-2-29(38687)
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥ 6-2-30(38688)
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ 6-2-31(38689)
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ 6-2-32(38690)
अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् ।
वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ॥ ॥ 6-2-33(38691)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-2-2 भविष्यति भाविनि ॥ 6-2-4 हिंसन्तीव नाशयिष्यन्त्येव ॥ 6-2-5 पर्यायं वैपरीत्यम् ॥ 6-2-6 निशामय पश्य ॥ 6-2-17 समवायान् संघान् ॥ 6-2-18 अभ्यग्रं समीपम् । क्रव्यादामांसभक्षकाः ॥ 6-2-19 वाशन्तः शब्दं कुर्वन्तः ॥ 6-2-21 परिघाः परिवेषाः कृष्णग्रीवाः मध्ये कृष्णाः श्वेतलोहितपर्यन्ताश्च संधौ संध्यायाम् आवारयन्ति वेष्टयन्ति ॥ 6-2-22 निर्विशेषदिनक्षयं इति झo पाठे निर्विशेषदिनक्षयं अहोरात्रम्। निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् । सूर्योदयद्वयस्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम्। तदेव विशिनष्टि ज्वलितेति। अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन्। दर्से क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ॥ 6-2-23 पद्मवर्णे रक्तपद्मवर्णे ॥ 6-2-27 अयुक्ताः अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति। महान्तो रथाः महारथाः । मनोरथा इति कo पाठः ॥ 6-2-29 गृहीतशस्त्रः आत्तलोहाः लोहतुण्डा इति यावत् शस्त्रमायुधलोहयोरित्यमरः। चर्मिणो भृङ्गरिटिसंज्ञाः कृष्णशलभविशेषाः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|